offers

Monday, 27 January 2014

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं .
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरं ..
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं .
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरं ..
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ .
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरं ..
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं .
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरं ..
करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरं .
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरं ..
गुंजा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा .
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरं ..
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं .
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरं ..
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा .
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरं ..

- vallabhacharya
http://www.youtube.com/watch?v=o7bjgtU8lyo

No comments:

Post a Comment

તમારું મુલ્ય કેટલું છે તે તમારી ઉપર નિર્ભર છે

એક યુવાને એના પિતાને પૂછ્યું કે પપ્પા આ માનવજીવનનું મૂલ્ય શુ છે ? પિતાએ જવાબમાં દીકરાના હાથમાં એક પથ્થર મુક્યો અને કહ્યું, "તું આ પથ્થર...